|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.68. अध्यायः 068
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति ब्राह्मणमहिमकथनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह।
कुर्वन्किं कर्म नृपतिरुभौ लोकौ समश्रुते 13-68-1(84235)
भीष्म उवाच। 13-68-2x(7004)
एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत।
ब्राह्मणानां रक्षणं च पूजा च सुखमिच्छतः॥ 13-68-2(84236)
कर्तव्यं पार्थिवेन्द्रेण तथैव भरतर्षभ।
श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत्॥ 13-68-3(84237)
पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान्।
सांत्वेन भोगदानेन नमस्कारैः सदाऽर्चयेत्॥ 13-68-4(84238)
एतत्कृत्यतमं राज्ञो नित्यमेवोपलक्षयेत्।
यथाऽऽत्मानं यथा पुत्रांस्तथैतान्प्रतिपालयेत्॥ 13-68-5(84239)
ये चाप्येषां पूज्यतमास्तान्दृढं प्रतिपूजयेत्।
तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते॥ 13-68-6(84240)
ते पूज्यास्ते नमस्कार्या मान्यास्ते पितरो यथा।
तेष्वेव यात्रा लोकानां भूतानामिव वासवे॥ 13-68-7(84241)
अभिचारैरुपायैश्च दहेयुरपि चेतसा।
निःशेपं कुपिताः कुर्युरुग्राः सत्यपराक्रमाः। 13-68-8(84242)
नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः।
कुपिताः समुदीक्षन्ते दावेषअवग्निशिखा इव॥ 13-68-9(84243)
`मान्यास्तेषां साधवो ये न निन्द्याश्चाप्यसाधवः'।
बिभ्यत्येषां साहसिका गुणास्तेषामतीव हि।
कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे॥ 13-68-10(84244)
प्रसह्यकारिणः केचित्कार्पासमृदवोऽपरे।
सन्ति चैषामतिशठास्तथैवान्ये तपस्विनः॥ 13-68-11(84245)
कृषिगोरक्ष्यमप्येके भैक्ष्यमन्येऽप्यनुष्ठिताः।
चोराश्चान्येऽनृताश्चान्ये तथाऽन्ये नटनर्तकाः॥ 13-68-12(84246)
सर्वकर्मसहाश्चान्ये पार्थिवेष्वितरेषु च।
विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ॥ 13-68-13(84247)
नानाकर्मसु रक्तानां बहुकर्मोपजीविनाम्।
धर्मज्ञानां सतां तेषां नित्यमवोनुकीर्तयेत् 13-68-14(84248)
पितॄणां देवतानं च मनुष्योरगरक्षसाम्।
पुराऽप्येते महाभागा ब्राह्मणा वै जनाधिप॥ 13-68-15(84249)
नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः।
नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः॥ 13-68-16(84250)
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम्।
यमिच्छेयुः स राजा स्याद्यं द्विष्युः स पराभवेत्॥ 13-68-17(84251)
परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः।
सत्यं ब्रवीमि ते राजन्विनश्येयुर्न संशयः॥ 13-68-18(84252)
निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरायणाः।
परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः॥ 13-68-19(84253)
ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते।
ब्राह्मणैर्यः पराकृष्टः पराभूयात्क्षणाद्धि सः॥ 13-68-20(84254)
शका यवनकाम्भोजास्तास्ताः क्षत्रियजातयः।
वृषलत्वं परिगता ब्राह्मणानामदर्शनात्॥ 13-68-21(84255)
द्राविडाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः।
कोलिसर्पा महिपकास्तास्ताः क्षत्रियजातयः॥ 13-68-22(84256)
वृपलत्वं परिगता ब्राह्मणानामदर्शनात्।
श्रेयान्पराजयस्तेभ्यो न जयो जयतांवर॥ 13-68-23(84257)
यस्तु सर्वमिदं हन्याद्ब्राह्मणं च न तत्समम्।
ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः॥ 13-68-24(84258)
परिवादो द्विजातीनां न श्रोतव्यः कथञ्चन।
आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा॥ 13-68-25(84259)
न स जातो जनिष्यो वा पृथिव्यामिह कश्चन।
यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत्॥ 13-68-26(84260)
दुर्ग्राह्यो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी।
दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि॥ ॥ 13-68-27(84261)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टषष्टितमोऽध्यायः॥ 68 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-68-6 एषां ब्राह्मणानां मध्ये॥ 7-68-7 वासवे पर्जन्ये॥ 7-68-8 अभिचारैः श्येनयागादिभिः। उणयैः कौलिकशास्त्रप्रसिद्धैः। चेतसा सङ्कल्पमात्रेण॥ 7-68-10 एषां एभ्यः साहसिका अकार्यकारिणोऽणि बिभ्यति किमुन विवेकिनः॥ 7-68-15 एते पूज्या इति शेषः। यतो महाभागाः॥ 7-68-19 परायणाः हेतवः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|